मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३४, ऋक् ६

संहिता

त्मना॑ स॒मत्सु॑ हि॒नोत॑ य॒ज्ञं दधा॑त के॒तुं जना॑य वी॒रम् ॥

पदपाठः

त्मना॑ । स॒मत्ऽसु॑ । हि॒नोत॑ । य॒ज्ञम् । दधा॑त । के॒तुम् । जना॑य । वी॒रम् ॥

सायणभाष्यम्

उक्तस्यैवविवरणमत्र हे मदीयाजनाः समत्सु संग्रामेषु त्मना स्वयमेव हिनोत गच्छत अपिच केतुं प्रज्ञापकं वीरं पापानां वारयितारं नाशकमित्यर्थः यज्ञं जनाय लोकाय तद्रक्षार्थमित्यर्थः दधात विधत्त ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५