मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३४, ऋक् ७

संहिता

उद॑स्य॒ शुष्मा॑द्भा॒नुर्नार्त॒ बिभ॑र्ति भा॒रं पृ॑थि॒वी न भूम॑ ॥

पदपाठः

उत् । अ॒स्य॒ । शुष्मा॑त् । भा॒नुः । न । आ॒र्त॒ । बिभ॑र्ति । भा॒रम् । पृ॒थि॒वी । न । भूम॑ ॥

सायणभाष्यम्

अस्य यज्ञस्य शुष्माद्बलाद्भानुः सूर्यउदार्त उद्गच्छति भूम भूतनि पृथिवीन पृथिवीव भारं लोकस्यायं यज्ञोबिभर्ति चन पूरणः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५