मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३४, ऋक् ८

संहिता

ह्वया॑मि दे॒वाँ अया॑तुरग्ने॒ साध॑न्नृ॒तेन॒ धियं॑ दधामि ॥

पदपाठः

ह्वया॑मि । दे॒वान् । अया॑तुः । अ॒ग्ने॒ । साध॑न् । ऋ॒तेन॑ । धिय॑म् । द॒धा॒मि॒ ॥

सायणभाष्यम्

अस्मिंस्तृचे देवाः स्तूयन्ते-हे अग्ने अयातुरहिंसादिनियमयुक्तेन ऋतेन यज्ञेन साधन् कामान् साधयन् देवान् ह्वयामि अपि च धियं देवानां परिचरणात्मकं कर्म दधामि करोमीत्यर्थः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५