मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३४, ऋक् १०

संहिता

आ च॑ष्ट आसां॒ पाथो॑ न॒दीनां॒ वरु॑ण उ॒ग्रः स॒हस्र॑चक्षाः ॥

पदपाठः

आ । च॒ष्टे॒ । आ॒सा॒म् । पाथः॑ । न॒दीना॑म् । वरु॑णः । उ॒ग्रः । स॒हस्र॑ऽचक्षाः ॥

सायणभाष्यम्

सहस्रचक्षाः बहुचक्षुः वरुणः आसां नदीनां पाथोजलमाचष्टेभिपश्यति किदृशोवरुणः उग्रः उद्गूर्णओजस्वी वा ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५