मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३४, ऋक् ११

संहिता

राजा॑ रा॒ष्ट्रानां॒ पेशो॑ न॒दीना॒मनु॑त्तमस्मै क्ष॒त्रं वि॒श्वायु॑ ॥

पदपाठः

राजा॑ । रा॒ष्ट्राना॑म् । पेशः॑ । न॒दीना॑म् । अनु॑त्तम् । अ॒स्मै॒ । क्ष॒त्रम् । वि॒श्वऽआ॑यु ॥

सायणभाष्यम्

राष्ट्रानां राष्ट्राणां णत्वाभावश्छान्दसः ईश्वराणामपि वरुणोराजा ईश्वरोभवति नदीनां पेशोरूपं रूपकृदपि भवतीत्यर्थः अस्मै षष्ठ्यर्थे- चतुर्थी अस्य वरुणस्य क्षत्रं बलं अनुत्तं अन्यैरबाधितं विश्वायु सर्वतोगन्तृ भवतीति ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६