मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३४, ऋक् १३

संहिता

व्ये॑तु दि॒द्युद्द्वि॒षामशे॑वा यु॒योत॒ विष्व॒ग्रप॑स्त॒नूना॑म् ॥

पदपाठः

वि । ए॒तु॒ । दि॒द्युत् । द्वि॒षाम् । अशे॑वा । यु॒योत॑ । विष्व॑क् । रपः॑ । त॒नूना॑म् ॥

सायणभाष्यम्

द्विषां शत्रूणां दिद्युदायुधमशेवा असुखकरी विष्वक् सर्वतोव्येतु अपगच्छतु तनूनामंगानां रपः पापं हे देवाः युयोत अस्मत्तः पृथक्कुरुत ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६