मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३४, ऋक् १७

संहिता

मा नोऽहि॑र्बु॒ध्न्यो॑ रि॒षे धा॒न्मा य॒ज्ञो अ॑स्य स्रिधदृता॒योः ॥

पदपाठः

मा । नः॒ । अहिः॑ । बु॒ध्न्यः॑ । रि॒षे । धा॒त् । मा । य॒ज्ञः । अ॒स्य॒ । स्रि॒ध॒त् । ऋ॒त॒ऽयोः ॥

सायणभाष्यम्

अहिर्बुध्न्यः बुध्नेन्तरिक्षे भवोबुध्न्यः अहिश्चासौ बुध्न्यश्चेत्यहिर्बुध्न्योग्निः नोस्मान्रिषे हिंसकाय माधात् माददातु अस्य ऋतायोर्यज्ञकामस्य यजमानस्य यज्ञोमा च स्रिधत् नक्षीयेत यद्वा अस्याहिर्बुध्न्यस्य इममहिर्बुध्न्यमुद्दिश्य ऋतयोर्यज्ञकामस्य योयज्ञः सनक्षीयेतेत्यर्थः ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६