मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३४, ऋक् १८

संहिता

उ॒त न॑ ए॒षु नृषु॒ श्रवो॑ धु॒ः प्र रा॒ये य॑न्तु॒ शर्ध॑न्तो अ॒र्यः ॥

पदपाठः

उ॒त । नः॒ । ए॒षु । नृषु॑ । श्रवः॑ । धुः॒ । प्र । रा॒ये । य॒न्तु॒ । शर्ध॑न्तः । अ॒र्यः ॥

सायणभाष्यम्

अयं द्वृचोदैवोमारुतोवा उतापिच नोस्मदीयेषु एषु नृषु पुरुषेषु श्रवोन्नं धुर्देवामरुतोवा धारयन्तु । राये धनार्थं रार्धन्तः उत्सहमानाः प्रीयमाणावा अर्यः अरयः प्रयन्तु प्रगच्छन्तु म्रियन्तामित्यर्थः ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६