मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३४, ऋक् १९

संहिता

तप॑न्ति॒ शत्रुं॒ स्व१॒॑र्ण भूमा॑ म॒हासे॑नासो॒ अमे॑भिरेषाम् ॥

पदपाठः

तप॑न्ति । शत्रु॑म् । स्वः॑ । न । भूम॑ । म॒हाऽसे॑नासः । अमे॑भिः । ए॒षा॒म् ॥

सायणभाष्यम्

महासेनासोमहासेनाराजानः एषां मरुतां देवानां वा अमेभिर्बलैः भूमा भुवनानि स्वर्ण आदित्यइव शुक्रं स्वकीयं तपन्ति बाधन्ते महान्तोपि राजानः अमैर्बलैः शत्रून् बाधन्ते तानि बलानि देवानामेवेत्यर्थः ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६