मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३४, ऋक् २०

संहिता

आ यन्न॒ः पत्नी॒र्गम॒न्त्यच्छा॒ त्वष्टा॑ सुपा॒णिर्दधा॑तु वी॒रान् ॥

पदपाठः

आ । यत् । नः॒ । पत्नीः॑ । गम॑न्ति । अच्छ॑ । त्वष्टा॑ । सु॒ऽपा॒णिः । दधा॑तु । वी॒रान् ॥

सायणभाष्यम्

अस्यां देवपत्न्यः त्वष्टाच देवता यद्यदा पत्नीर्देवानां पत्न्योनोस्मानच्छाभ्यागमंति आगच्छन्ति तदा सुपाणिः शोभनहस्तः त्वष्टा देवोवीरान् पुत्रान् दधातु अस्मभ्यं ददातु ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६