मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३४, ऋक् २२

संहिता

ता नो॑ रासन्राति॒षाचो॒ वसू॒न्या रोद॑सी वरुणा॒नी शृ॑णोतु ।
वरू॑त्रीभिः सुशर॒णो नो॑ अस्तु॒ त्वष्टा॑ सु॒दत्रो॒ वि द॑धातु॒ रायः॑ ॥

पदपाठः

ता । नः॒ । रा॒स॒न् । रा॒ति॒ऽसाचः॑ । वसू॑नि । आ । रोद॑सी॒ इति॑ । व॒रु॒णा॒नी । शृ॒णो॒तु॒ ।
वरू॑त्रीभिः । सु॒ऽश॒र॒णः । नः॒ । अ॒स्तु॒ । त्वष्टा॑ । सु॒ऽदत्रः॑ । वि । द॒धा॒तु॒ । रायः॑ ॥

सायणभाष्यम्

ता यान्यस्माकमभीष्टानि तानि वसूनि धनानि रातिषाचो दानसमवेता देवपत्न्योनोस्मभ्यं रासन् प्रयच्छन्तु । अपि च वरुणानी वरुणस्य पत्नी आशृणोत्वस्मदीयं स्तोत्रमभिशृणोतु । रोदसी द्यावापृथिव्यौ चाभिशृणुताम् । सुदत्रः कल्याणदानः त्वष्टाच वरूत्रीभिरु- पद्रवानांवारयित्रीभिर्देवपत्नीभिः सह नोस्मभ्यं सुशरणः सुशरणप्रदोस्तु रायोधनानिच विदधातु ॥ २२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७