मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३४, ऋक् २३

संहिता

तन्नो॒ राय॒ः पर्व॑ता॒स्तन्न॒ आप॒स्तद्रा॑ति॒षाच॒ ओष॑धीरु॒त द्यौः ।
वन॒स्पति॑भिः पृथि॒वी स॒जोषा॑ उ॒भे रोद॑सी॒ परि॑ पासतो नः ॥

पदपाठः

तत् । नः॒ । रायः॑ । पर्व॑ताः । तत् । नः॒ । आपः॑ । तत् । रा॒ति॒ऽसाचः॑ । ओष॑धीः । उ॒त । द्यौः ।
वन॒स्पति॑ऽभिः । पृ॒थि॒वी । स॒ऽजोषाः॑ । उ॒भे इति॑ । रोद॑सी॒ इति॑ । परि॑ । पा॒स॒तः॒ । नः॒ ॥

सायणभाष्यम्

नोस्माकं तदित्यव्ययः ता रायोधनानि पर्वताः परिपान्तु नोस्माकं तत् ता रायः आपश्च परिपान्तु तद्रातिषाचोदानसहितादेवपत्न्यश्च परिपान्तु ओषधीरोषधयश्च तत्परिपान्तु उतापिच द्यौस्तत्परिपातु वनस्पतिभिः सजोषाः सहिता पृथिव्यन्तरिक्षं च तत्परिपातु आपः पृथिवीत्यन्तरिक्षनामसु पाठात् नोस्माकं तदुभेरोदसी द्यावापृथिव्यावपि परिपासतः परिरक्षतां ॥ २३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७