मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३५, ऋक् १

संहिता

शं न॑ इन्द्रा॒ग्नी भ॑वता॒मवो॑भि॒ः शं न॒ इन्द्रा॒वरु॑णा रा॒तह॑व्या ।
शमिन्द्रा॒सोमा॑ सुवि॒ताय॒ शं योः शं न॒ इन्द्रा॑पू॒षणा॒ वाज॑सातौ ॥

पदपाठः

शम् । नः॒ । इ॒न्द्रा॒ग्नी इति॑ । भ॒व॒ता॒म् । अवः॑ऽभिः । शम् । नः॒ । इन्द्रा॒वरु॑णा । रा॒तऽह॑व्या ।
शम् । इन्द्रा॒सोमा॑ । सु॒वि॒ताय॑ । शम् । योः । शम् । नः॒ । इन्द्रा॑पू॒षणा॑ । वाज॑ऽसातौ ॥

सायणभाष्यम्

नोस्माकमस्मभ्यं वा इन्द्राग्नी अवोभीरक्षणैः शंशांत्यै भवताम् । राहतव्या रातहव्यौ यजमानैर्दत्तहविष्काविन्द्रावरुणेन्द्रावरुणावपि नोस्मभ्यं शंशांत्यै भवताम् । इन्द्रासोमा इन्द्रासोमावपि नः शं शांत्यै सुविताय कल्याणाय च भवतां शं शांत्यै सुखाय च पुनरुक्तिरा- दरार्था अथवा शं शमनहेतुकं सुखं योः विषययोगनिमित्तं सुखमित्यपुनरुक्तिः । इन्द्रापूषणा इन्द्रापूषणावपि वाजसातौ युद्धे अन्नलाभे निमित्ते वा नः शं शांत्यै भवतामित्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८