मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३५, ऋक् २

संहिता

शं नो॒ भग॒ः शमु॑ न॒ः शंसो॑ अस्तु॒ शं न॒ः पुरं॑धि॒ः शमु॑ सन्तु॒ रायः॑ ।
शं नः॑ स॒त्यस्य॑ सु॒यम॑स्य॒ शंस॒ः शं नो॑ अर्य॒मा पु॑रुजा॒तो अ॑स्तु ॥

पदपाठः

शम् । नः॒ । भगः॑ । शम् । ऊं॒ इति॑ । नः॒ । शंसः॑ । अ॒स्तु॒ । शम् । नः॒ । पुर॑म्ऽधिः । शम् । ऊं॒ इति॑ । स॒न्तु॒ । रायः॑ ।
शम् । नः॒ । स॒त्यस्य॑ । सु॒ऽयम॑स्य । शंसः॑ । शम् । नः॒ । अ॒र्य॒मा । पु॒रु॒ऽजा॒तः । अ॒स्तु॒ ॥

सायणभाष्यम्

नोस्माकं शं शांत्यै भगोदेवोस्तु भवतु नोस्माकं शमु शांत्यै एव शंसोनराशंसोस्तु भवतु नोस्माकं शं शांत्यै पुरंधिर्बहुधीरप्यस्तु रायोध- नान्यपिशमु शांत्यै एव सन्तु नोस्माकं सुयमस्य शोभनयमयुक्तस्य सत्यस्य शंसोवचनमपि शमस्तु नोस्माकं शं शांत्यै पुरुजातोबहुप्रादु- र्भावोर्यमादेवोप्यस्त ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८