मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३५, ऋक् ३

संहिता

शं नो॑ धा॒ता शमु॑ ध॒र्ता नो॑ अस्तु॒ शं न॑ उरू॒ची भ॑वतु स्व॒धाभि॑ः ।
शं रोद॑सी बृह॒ती शं नो॒ अद्रि॒ः शं नो॑ दे॒वानां॑ सु॒हवा॑नि सन्तु ॥

पदपाठः

शम् । नः॒ । धा॒ता । शम् । ऊं॒ इति॑ । ध॒र्ता । नः॒ । अ॒स्तु॒ । शम् । नः॒ । उ॒रू॒ची । भ॒व॒तु॒ । स्व॒धाभिः॑ ।
शम् । रोद॑सी॒ इति॑ । बृ॒ह॒ती इति॑ । शम् । नः॒ । अद्रिः॑ । शम् । नः॒ । दे॒वाना॑म् । सु॒ऽहवा॑नि । स॒न्तु॒ ॥

सायणभाष्यम्

नोस्माकं शं शांत्यै धातादेवोस्तु नोस्माकं शमु शांत्यै एव विधार्ता पुण्यपापानां विधारयिता वरुणोदेवोप्यस्तु नोस्माकं शं शांत्यै उरूचीविवर्तगमनापृथिव्यपि स्वधाभिरन्नैः सहास्तु बृहतीमहत्यौ रोदसी द्यावापृथिव्यावपि शं भवतां अद्रिः पर्वतोपि नोस्माकं शं शांत्यै भवतु । शं शांत्यै नोस्माकंदेवानांसुहवानि सुष्टुतयःसन्तु भवन्तु ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८