मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३५, ऋक् ४

संहिता

शं नो॑ अ॒ग्निर्ज्योति॑रनीको अस्तु॒ शं नो॑ मि॒त्रावरु॑णाव॒श्विना॒ शम् ।
शं नः॑ सु॒कृतां॑ सुकृ॒तानि॑ सन्तु॒ शं न॑ इषि॒रो अ॒भि वा॑तु॒ वातः॑ ॥

पदपाठः

शम् । नः॒ । अ॒ग्निः । ज्योतिः॑ऽअनीकः । अ॒स्तु॒ । शम् । नः॒ । मि॒त्रावरु॑णौ । अ॒श्विना॑ । शम् ।
शम् । नः॒ । सु॒ऽकृता॑म् । सु॒ऽकृ॒तानि॑ । स॒न्तु॒ । शम् । नः॒ । इ॒षि॒रः । अ॒भि । वा॒तु॒ । वातः॑ ॥

सायणभाष्यम्

ज्योतिरनीकोज्योतिर्मुखोग्निः नोस्माकं शं शांत्यै अस्तु भवतु मित्रावरुणा मित्रावरुणावपि नोस्माकं शं शांत्यै भवतां अश्विना अश्विनावपि शं भवतां सुकृतां पुण्यकर्मणां पुरुषाणां सुकृतानि पुण्यकर्माणि अपि नोस्माकं शं शांत्यै सन्तु भवंतु । इषिरोगमनशीलोपि वातोवायुरपि नोस्माकं शं शांत्यै अभिवातु ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८