मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३५, ऋक् ५

संहिता

शं नो॒ द्यावा॑पृथि॒वी पू॒र्वहू॑तौ॒ शम॒न्तरि॑क्षं दृ॒शये॑ नो अस्तु ।
शं न॒ ओष॑धीर्व॒निनो॑ भवन्तु॒ शं नो॒ रज॑स॒स्पति॑रस्तु जि॒ष्णुः ॥

पदपाठः

शम् । नः॒ । द्यावा॑पृथि॒वी इति॑ । पू॒र्वऽहू॑तौ । शम् । अ॒न्तरि॑क्षम् । दृ॒शये॑ । नः॒ । अ॒स्तु॒ ।
शम् । नः॒ । ओष॑धीः । व॒निनः॑ । भ॒व॒न्तु॒ । शम् । नः॒ । रज॑सः । पतिः॑ । अ॒स्तु॒ । जि॒ष्णुः ॥

सायणभाष्यम्

नोस्माकं शं शांत्यै द्यावापृथिवी द्यावापृथिव्यौ पूर्वहूतौ प्रथमाह्वाने भवतां अन्तरिक्षमपि नोस्माकं दृशये दर्शनाय शमस्तु नोस्माकं शंशांत्यै ओषधीरोषधयोपि भवन्तु वनिनोवृक्षाश्च शं भवन्तु जिष्णुः जयशीलो रजसोलोकस्य पतिरिन्दोपि नोस्माकं शं शांत्यै अस्तु ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८