मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३५, ऋक् ६

संहिता

शं न॒ इन्द्रो॒ वसु॑भिर्दे॒वो अ॑स्तु॒ शमा॑दि॒त्येभि॒र्वरु॑णः सु॒शंसः॑ ।
शं नो॑ रु॒द्रो रु॒द्रेभि॒र्जला॑ष॒ः शं न॒स्त्वष्टा॒ ग्नाभि॑रि॒ह शृ॑णोतु ॥

पदपाठः

शम् । नः॒ । इन्द्रः॑ । वसु॑ऽभिः । दे॒वः । अ॒स्तु॒ । शम् । आ॒दि॒त्येभिः॑ । वरु॑णः । सु॒ऽशंसः॑ ।
शम् । नः॒ । रु॒द्रः । रु॒द्रेभिः॑ । जला॑षः । शम् । नः॒ । त्वष्टा॑ । ग्नाभिः॑ । इ॒ह । शृ॒णो॒तु॒ ॥

सायणभाष्यम्

देवोद्योतनादिगुणयुक्तइन्द्रोवसुभिर्देवैः सार्धं नोस्माकं शंशांत्यै भवतु सुशंसः शोभनस्तुतिर्वरुणोदेवः आदित्येभिः आदित्यैर्देवैः सार्धं शं शांत्यै अस्तु भवतु जलाषः सुखरूपोरुद्रोदुःखद्रावकोदेवः रुद्रेभिः रुद्रैः सार्धं शं शांत्यै नोस्माकं भवतु इहयज्ञे त्वष्टादेवः ग्नाभिर्देवपत्नीभिः सार्धं नः शं शांत्यै भवतु इहयज्ञे नः स्तोत्रं शृणोतुच ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९