मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३५, ऋक् ७

संहिता

शं न॒ः सोमो॑ भवतु॒ ब्रह्म॒ शं न॒ः शं नो॒ ग्रावा॑ण॒ः शमु॑ सन्तु य॒ज्ञाः ।
शं न॒ः स्वरू॑णां मि॒तयो॑ भवन्तु॒ शं नः॑ प्र॒स्व१॒॑ः शम्व॑स्तु॒ वेदि॑ः ॥

पदपाठः

शम् । नः॒ । सोमः॑ । भ॒व॒तु॒ । ब्रह्म॑ । शम् । नः॒ । शम् । नः॒ । ग्रावा॑णः । शम् । ऊं॒ इति॑ । स॒न्तु॒ । य॒ज्ञाः ।
शम् । नः॒ । स्वरू॑णाम् । मि॒तयः॑ । भ॒व॒न्तु॒ । शम् । नः॒ । प्र॒ऽस्वः॑ । शम् । ऊं॒ इति॑ । अ॒स्तु॒ । वेदिः॑ ॥

सायणभाष्यम्

नोस्माकं शं शांत्यै सोमोदेवतारूपः भवतु ब्रह्म स्तोत्रमपि नोस्माकं शं शांत्यै भवतु ग्रावाणोभिषवसाधनभूताः पाषाणाअपि नोस्माकं शं शांत्यै भवन्तु यज्ञाश्च नः शमु शांत्यै एव सन्तु स्वरूणां यूपानां मितयः उन्मानान्यपि नोस्माकं शं शांत्यै भवन्तु प्रस्वः ओषधयोपि नोस्माकं शं शांत्यै भवन्तु वेदिरपि नः शमु शांत्यै एवास्तु ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९