मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३५, ऋक् ८

संहिता

शं न॒ः सूर्य॑ उरु॒चक्षा॒ उदे॑तु॒ शं न॒श्चत॑स्रः प्र॒दिशो॑ भवन्तु ।
शं न॒ः पर्व॑ता ध्रु॒वयो॑ भवन्तु॒ शं न॒ः सिन्ध॑व॒ः शमु॑ स॒न्त्वापः॑ ॥

पदपाठः

शम् । नः॒ । सूर्यः॑ । उ॒रु॒ऽचक्षाः॑ । उत् । ए॒तु॒ । शम् । नः॒ । चत॑स्रः । प्र॒ऽदिशः॑ । भ॒व॒न्तु॒ ।
शम् । नः॒ । पर्व॑ताः । ध्रु॒वयः॑ । भ॒व॒न्तु॒ । शम् । नः॒ । सिन्ध॑वः । शम् । ऊं॒ इति॑ । स॒न्तु॒ । आपः॑ ॥

सायणभाष्यम्

नोस्माकं शं शांत्यै सूर्यउरुचक्षाः विस्तीर्णतेजाः सन् उदेतु उदयं प्राप्नोतु । चतस्रः प्रदिशोमहादिशोपि नोस्माकं शं शांत्यै भवन्तु नोस्माकं शं शांत्यै पर्वताध्रुवयो ध्रुवाभवन्तु नोस्माकं शं शांत्यै सिन्धवोनद्योपि भवन्तु आपश्च नः शमु शांत्यै एव सन्तु ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९