मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३५, ऋक् ९

संहिता

शं नो॒ अदि॑तिर्भवतु व्र॒तेभि॒ः शं नो॑ भवन्तु म॒रुतः॑ स्व॒र्काः ।
शं नो॒ विष्णु॒ः शमु॑ पू॒षा नो॑ अस्तु॒ शं नो॑ भ॒वित्रं॒ शम्व॑स्तु वा॒युः ॥

पदपाठः

शम् । नः॒ । अदि॑तिः । भ॒व॒तु॒ । व्र॒तेभिः॑ । शम् । नः॒ । भ॒व॒न्तु॒ । म॒रुतः॑ । सु॒ऽअ॒र्काः ।
शम् । नः॒ । विष्णुः॑ । शम् । ऊं॒ इति॑ । पू॒षा । नः॒ । अ॒स्तु॒ । शम् । नः॒ । भ॒वित्र॑म् । शम् । ऊं॒ इति॑ । अ॒स्तु॒ । वा॒युः ॥

सायणभाष्यम्

अदितिर्देवी व्रतेभिर्व्रतैः कर्मभिः सार्धं नोस्माकं शं शांत्यै भवतु स्वर्काः शोभनस्तुतयोमरुतोपि नोस्माकं शं शांत्यै सन्तु विष्णुः व्यापकः नोस्माकं शं शांत्यै अस्तु पूषादेवोपि नोस्माकं शमु शांत्यै एवास्तु भवित्रं भूवनमन्तरिक्षं उदकंवा नोस्माकं शं शांत्यै अस्तु वायुरपि नः शमु शांत्यै एवास्तु ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९