मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३५, ऋक् १०

संहिता

शं नो॑ दे॒वः स॑वि॒ता त्राय॑माण॒ः शं नो॑ भवन्तू॒षसो॑ विभा॒तीः ।
शं नः॑ प॒र्जन्यो॑ भवतु प्र॒जाभ्य॒ः शं न॒ः क्षेत्र॑स्य॒ पति॑रस्तु श॒म्भुः ॥

पदपाठः

शम् । नः॒ । दे॒वः । स॒वि॒ता । त्राय॑माणः । शम् । नः॒ । भ॒व॒न्तु॒ । उ॒षसः॑ । वि॒ऽभा॒तीः ।
शम् । नः॒ । प॒र्जन्यः॑ । भ॒व॒तु॒ । प्र॒ऽजाभ्यः॑ । शम् । नः॒ । क्षेत्र॑स्य । पतिः॑ । अ॒स्तु॒ । श॒म्ऽभुः ॥

सायणभाष्यम्

देवः क्रीडनादिगुणयुक्तः सविता त्रायमाणो रक्षन् नोस्माकं शं शांत्यै भवतु विभातीर्व्युच्छंत्यःउषसोपिनोस्माकंशं शांत्यै भवन्तु नोस्माकं प्रजाभ्यः पर्जन्योपि शं भवतु शंभुः सुखस्यभावयिता क्षेत्रस्य पतिर्नोस्माकं शं शांत्यै अस्तु ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९