मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३५, ऋक् १२

संहिता

शं नः॑ स॒त्यस्य॒ पत॑यो भवन्तु॒ शं नो॒ अर्व॑न्त॒ः शमु॑ सन्तु॒ गावः॑ ।
शं न॑ ऋ॒भवः॑ सु॒कृतः॑ सु॒हस्ता॒ः शं नो॑ भवन्तु पि॒तरो॒ हवे॑षु ॥

पदपाठः

शम् । नः॒ । स॒त्यस्य॑ । पत॑यः । भ॒व॒न्तु॒ । शम् । नः॒ । अर्व॑न्तः । शम् । ऊं॒ इति॑ । स॒न्तु॒ । गावः॑ ।
शम् । नः॒ । ऋ॒भवः॑ । सु॒ऽकृतः॑ । सु॒ऽहस्ताः॑ । शम् । नः॒ । भ॒व॒न्तु॒ । पि॒तरः॑ । हवे॑षु ॥

सायणभाष्यम्

सत्यस्य पतयः पालकाः सत्यशीलादेवानोस्माकं शं शांत्यै भवंतु अर्वन्तोश्वाश्चनोस्माकं शं शांत्यै भवन्तु गावोपि नः शं शांत्यै सन्तु भवन्तु सुकृतः सुकर्माणः सुहस्ताः शोभनहस्ताः ऋभवोपि नोस्माकं शं शांत्यै सन्तु हवेषु स्तोत्रेषु सत्सु पितरोपि नोस्माकं शं शांत्यै भवन्तु ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०