मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३५, ऋक् १३

संहिता

शं नो॑ अ॒ज एक॑पाद्दे॒वो अ॑स्तु॒ शं नोऽहि॑र्बु॒ध्न्य१॒॑ः शं स॑मु॒द्रः ।
शं नो॑ अ॒पां नपा॑त्पे॒रुर॑स्तु॒ शं न॒ः पृश्नि॑र्भवतु दे॒वगो॑पा ॥

पदपाठः

शम् । नः॒ । अ॒जः । एक॑ऽपात् । दे॒वः । अ॒स्तु॒ । शम् । नः॒ । अहिः॑ । बु॒ध्न्यः॑ । शम् । स॒मु॒द्रः ।
शम् । नः॒ । अ॒पाम् । नपा॑त् । पे॒रुः । अ॒स्तु॒ । शम् । नः॒ । पृश्निः॑ । भ॒व॒तु॒ । दे॒वऽगो॑पा ॥

सायणभाष्यम्

अजएकपात् अजएकपान्नामधेयो देवोनोस्माकं शं शांत्यै अस्तु अहिर्बुध्नयश्च नोस्माकं शं शांत्यै अस्तु समुद्रोपि नः शं शांत्यै अस्तु पेरुः उपद्रवेभ्यः पारयिता अपांनपात् अपांनपान्नामधेयोपि देवोनोस्माकं शं शांत्यै अस्तु देवगोपा देवागोपायितारो यस्यांसापृश्निर्मरुतां माता नोस्माकं शं शांत्यै भवतु ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०