मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३५, ऋक् १४

संहिता

आ॒दि॒त्या रु॒द्रा वस॑वो जुषन्ते॒दं ब्रह्म॑ क्रि॒यमा॑णं॒ नवी॑यः ।
शृ॒ण्वन्तु॑ नो दि॒व्याः पार्थि॑वासो॒ गोजा॑ता उ॒त ये य॒ज्ञिया॑सः ॥

पदपाठः

आ॒दि॒त्याः । रु॒द्राः । वस॑वः । जु॒ष॒न्त॒ । इ॒दम् । ब्रह्म॑ । क्रि॒यमा॑णम् । नवी॑यः ।
शृ॒ण्वन्तु॑ । नः॒ । दि॒व्याः । पार्थि॑वासः । गोऽजा॑ताः । उ॒त । ये । य॒ज्ञिया॑सः ॥

सायणभाष्यम्

नवीयोनवतरमस्माभिः क्रियमाणमिदं ब्रह्मस्तोत्रं आदित्यादिव्याः अदितिर्द्यौरितिश्रुतेः । रुद्राआन्तरिक्षाः वसवः पार्थिवाश्च जुषन्त जुषन्तां सेवन्तां अन्येच दिव्याः दिविभवाः पार्थिवासः पार्थिवाः गोजाताः गोः पृश्नेर्जाताः नाकः गौरिति साधारणनामसु पाठात् उतापिच ये यज्ञियासोयज्ञार्हाः ते सर्वेपि नोस्माकं हवं श्रृण्वन्तु ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०