मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३६, ऋक् २

संहिता

इ॒मां वां॑ मित्रावरुणा सुवृ॒क्तिमिषं॒ न कृ॑ण्वे असुरा॒ नवी॑यः ।
इ॒नो वा॑म॒न्यः प॑द॒वीरद॑ब्धो॒ जनं॑ च मि॒त्रो य॑तति ब्रुवा॒णः ॥

पदपाठः

इ॒माम् । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । सु॒ऽवृ॒क्तिम् । इष॑म् । न । कृ॒ण्वे॒ । अ॒सु॒रा॒ । नवी॑यः ।
इ॒नः । वा॒म् । अ॒न्यः । प॒द॒ऽवीः । अद॑ब्धः । जन॑म् । च॒ । मि॒त्रः । य॒त॒ति॒ । ब्रु॒वा॒णः ॥

सायणभाष्यम्

हे असुरा असुरौ बलवन्तौ हे मित्रावरुणा मित्रावरुणौ वां युवाभ्यां इषं न हवीरूपमन्नमिव नवीयो नवीयसीं इमामस्मदीयां पुरोवर्तिनीं सुवृक्तिं स्तुतिं कृण्वे अहं स्तोता करोमि । युवयोरन्यः अन्यतरः इनः प्रभुः अदब्धः शत्रुभिरहिंसितोवरुणः पदवीः पदस्य स्थानस्य प्रजनयिता वरुणोहि धर्माधर्मयोर्धरयितेति पदवीरित्युच्यते । ब्रुवाणः अस्माभिः स्तूयमानो मित्रश्च जनं सर्वं प्राणिजातं यतति यातयति प्रवर्तयति । तथाच श्रूयते-मित्रोजनान्यातयतिब्रुवाणइति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः