मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३६, ऋक् ५

संहिता

यज॑न्ते अस्य स॒ख्यं वय॑श्च नम॒स्विन॒ः स्व ऋ॒तस्य॒ धाम॑न् ।
वि पृक्षो॑ बाबधे॒ नृभि॒ः स्तवा॑न इ॒दं नमो॑ रु॒द्राय॒ प्रेष्ठ॑म् ॥

पदपाठः

यज॑न्ते । अ॒स्य॒ । स॒ख्यम् । वयः॑ । च॒ । न॒म॒स्विनः॑ । स्वे । ऋ॒तस्य॑ । धाम॑न् ।
वि । पृक्षः॑ । बा॒ब॒धे॒ । नृऽभिः॑ । स्तवा॑नः । इ॒दम् । नमः॑ । रु॒द्राय॑ । प्रेष्ठ॑म् ॥

सायणभाष्यम्

अनया रुद्रः स्तूयते नमस्विनः हविर्लक्षणान्नवन्तः स्वे स्वकीये ऋतस्य यज्ञस्य धामन् धामनि स्थाने स्वकीययज्ञगृहे स्थिताइत्यर्थः वय- श्च गन्तारः कर्माणि कुर्वाणाः यजमानाः अस्य रुद्रस्य सख्यं सखित्वमुद्दिश्य यजन्ते पूजयन्तु नृभिः नेतृभिः स्तवानः स्तूयमानोरुद्रः पृक्षोन्नं स्तोतृषु विबाबधे विबध्नाति ददातीत्यर्थः प्रेष्ठं रुद्रस्य प्रियतमं इदं नमस्तस्मै रुद्राय मया क्रियते ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः