मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३६, ऋक् ६

संहिता

आ यत्सा॒कं य॒शसो॑ वावशा॒नाः सर॑स्वती स॒प्तथी॒ सिन्धु॑माता ।
याः सु॒ष्वय॑न्त सु॒दुघा॑ः सुधा॒रा अ॒भि स्वेन॒ पय॑सा॒ पीप्या॑नाः ॥

पदपाठः

आ । यत् । सा॒कम् । य॒शसः॑ । वा॒व॒शा॒नाः । सर॑स्वती । स॒प्तथी॑ । सिन्धु॑ऽमाता ।
याः । सु॒स्वय॑न्त । सु॒ऽदुघाः॑ । सु॒ऽधा॒राः । अ॒भि । स्वेन॑ । पय॑सा । पीप्या॑नाः ॥

सायणभाष्यम्

यत् यासां गंगादीनां मध्ये सिन्धुमाता अपां मातृभूता सरस्वती एतदाख्यानदी सप्तथी सप्तमी भवति सुदुघाः कामान्दोग्धुं सुशक्याः सुधाराः शोभनधारोपेताश्च नद्यः सुष्वयन्त सुष्वयन्ते गतिकर्मैतत् प्रवहन्ति स्वेन स्वकीयेन पयसोदकेन अभि पीप्यानाः याश्चाभिवर्धयंत्यः यशसोन्नवत्यः वावशाना कामयमानानद्यः साकं युगपदेव आगच्छन्तु आइत्युपसर्गस्य योग्यक्रियाध्याहारः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः