प्र वो॑ म॒हीम॒रम॑तिं कृणुध्वं॒ प्र पू॒षणं॑ विद॒थ्यं१॒॑ न वी॒रम् ।
भगं॑ धि॒यो॑ऽवि॒तारं॑ नो अ॒स्याः सा॒तौ वाजं॑ राति॒षाचं॒ पुरं॑धिम् ॥
प्र । वः॒ । म॒हीम् । अ॒रम॑तिम् । कृ॒णु॒ध्व॒म् । प्र । पू॒षण॑म् । वि॒द॒थ्य॑म् । न । वी॒रम् ।
भग॑म् । धि॒यः । अ॒वि॒तार॑म् । नः॒ । अ॒स्याः । सा॒तौ । वाज॑म् । रा॒ति॒ऽसाच॑म् । पुर॑म्ऽधिम् ॥
हे स्तोतारो वो यूयं अरमतिं उपरतिरहितां महीं महतीं भूमिं प्रकृणुध्वं आह्वयत तथा विदथ्यं यज्ञार्हं वीरं न सर्वेषां प्रेरकं च पूषणं एतन्नामकं देवं प्रकृणुध्वं तथा अस्याधियः नोस्मदीयस्यास्यकर्मणः अवितारं रक्षितारं भगं देवं च आह्वयत अपि च सातौ अस्मदीये यज्ञे युद्धेवा वाजं ऋभूणामन्यतमं देवं आह्वयत कीदृशं वाजं रातिषाचं दानसेचकं पुरंधिं पुराणां धारयितारं ॥ ८ ॥