मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३७, ऋक् २

संहिता

यू॒यं ह॒ रत्नं॑ म॒घव॑त्सु धत्थ स्व॒र्दृश॑ ऋभुक्षणो॒ अमृ॑क्तम् ।
सं य॒ज्ञेषु॑ स्वधावन्तः पिबध्वं॒ वि नो॒ राधां॑सि म॒तिभि॑र्दयध्वम् ॥

पदपाठः

यू॒यम् । ह॒ । रत्न॑म् । म॒घव॑त्ऽसु । ध॒त्थ॒ । स्वः॒ऽदृशः॑ । ऋ॒भु॒क्ष॒णः॒ । अमृ॑क्तम् ।
सम् । य॒ज्ञेषु॑ । स्व॒धा॒ऽव॒न्तः॒ । पि॒ब॒ध्व॒म् । वि । नः॒ । राधां॑सि । म॒तिऽभिः॑ । द॒य॒ध्व॒म् ॥

सायणभाष्यम्

हे ऋभुक्षणः हे ऋभवः स्वर्दृशः स्वर्गं पश्यन्तोयूयं ह यूयमेव मघवत्सु हविर्लक्षणान्नवत्सु अस्मासु निमित्तेषु अमृतं अहिंसितं चोरादिभि- र्नापहृतमित्यर्थः रत्नं रमणीयं धत्थ धारयथ तत्नन्तरं स्वधावन्तोबलवन्तस्ते यूयं यज्ञेषु अस्मदीययज्ञेषु संपिबध्वं सम्यक् सोमंपिबत अपिच यूयं मतिभिर्धनहेतुभिः नोस्मभ्यं राधांसि धनानि विदयध्वं विशेषेणदत्त ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः