मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३७, ऋक् ३

संहिता

उ॒वोचि॑थ॒ हि म॑घवन्दे॒ष्णं म॒हो अर्भ॑स्य॒ वसु॑नो विभा॒गे ।
उ॒भा ते॑ पू॒र्णा वसु॑ना॒ गभ॑स्ती॒ न सू॒नृता॒ नि य॑मते वस॒व्या॑ ॥

पदपाठः

उ॒वोचि॑थ । हि । म॒घ॒ऽव॒न् । दे॒ष्णम् । म॒हः । अर्भ॑स्य । वसु॑नः । वि॒ऽभा॒गे ।
उ॒भा । ते॒ । पू॒र्णा । वसु॑ना । गभ॑स्ती॒ इति॑ । न । सू॒नृता॑ । नि । य॒म॒ते॒ । व॒स॒व्या॑ ॥

सायणभाष्यम्

उवोचिथेत्याद्याः पंचर्चइन्द्रदेवताकाः हे मघवन् धनवन्निन्द्र त्वं महोमहतः अर्भस्याल्पस्यच वसुनोधनस्य विभागे परिचरणानुकूलेदान- निमित्ते देष्णं धनं उवोचिथहि सेवसेखलु उचतिःसेवाकर्मा तथा ते त्वदीयौ उभा उभौ गभस्ती बाहू वसुना धनेन पूर्णा पूर्णौ भवतः ते त्वदीयासूनृतावाक् वसव्या वसूनि धनानि ननियमते ननिच्छति यद्वा वसव्या वसुषु धनेषु साधुः सूनृतावाक् धनेन संपूर्णौ त्वदीयौ बाहू ननियच्छति नाल्पंप्रदापयतीत्यर्थः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः