मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३७, ऋक् ४

संहिता

त्वमि॑न्द्र॒ स्वय॑शा ऋभु॒क्षा वाजो॒ न सा॒धुरस्त॑मे॒ष्यृक्वा॑ ।
व॒यं नु ते॑ दा॒श्वांसः॑ स्याम॒ ब्रह्म॑ कृ॒ण्वन्तो॑ हरिवो॒ वसि॑ष्ठाः ॥

पदपाठः

त्वम् । इ॒न्द्र॒ । स्वऽय॑शाः । ऋ॒भु॒क्षाः । वाजः॑ । न । सा॒धुः । अस्त॑म् । ए॒षि॒ । ऋक्वा॑ ।
व॒यम् । नु । ते॒ । दा॒श्वांसः॑ । स्या॒म॒ । ब्रह्म॑ । कृ॒ण्वन्तः॑ । ह॒रि॒ऽवः॒ । वसि॑ष्ठाः ॥

सायणभाष्यम्

हे इन्द्र स्वयशाः असाधारणकीर्तिः ऋभुक्षाः ऋभुनिवासकः ऋभूणामीश्वरोवा त्वं साधुः साधकः वाजोन अन्नमिव ऋक्वा ऋक्वणः स्तोतुः मम अस्तं गृहं एषि प्राप्नुहि नु अद्य वयं वसिष्ठाः एतत्संज्ञकाऋषयो हे हरिवः स्वकीयाश्वोपेतेन्द्र ते त्वदर्थं दाश्वांसः हविर्लक्षणान्नं दत्तवन्तः ब्रह्म स्तोत्रं कृण्वन्तः कुर्वन्तःसन्तः स्याम भवेम ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः