मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३७, ऋक् ५

संहिता

सनि॑तासि प्र॒वतो॑ दा॒शुषे॑ चि॒द्याभि॒र्विवे॑षो हर्यश्व धी॒भिः ।
व॒व॒न्मा नु ते॒ युज्या॑भिरू॒ती क॒दा न॑ इन्द्र रा॒य आ द॑शस्येः ॥

पदपाठः

सनि॑ता । अ॒सि॒ । प्र॒ऽवतः॑ । दा॒शुषे॑ । चि॒त् । याभिः॑ । विवे॑षः । ह॒रि॒ऽअ॒श्व॒ । धी॒भिः ।
व॒व॒न्म । नु । ते॒ । युज्या॑भिः । ऊ॒ती । क॒दा । नः॒ । इ॒न्द्र॒ । रा॒यः । आ । द॒श॒स्येः॒ ॥

सायणभाष्यम्

हे हर्यश्व हरिनामकाश्वेन्द्र त्वं याभिर्धीभिः अस्मदीयाभिः स्तुतिभिः विवेषव्याप्नोषिसत्वं दाशुषेचित् हविर्दत्तवते यजमानायापि प्रवतः प्रवणस्य धनस्यसनितासि दाताभवसि अपिच हेइन्द्र त्वं नोस्मभ्यं कदा कस्मिन्काले रायो धनानि आदशस्येः प्रयच्छेः नु अद्य ते तव युज्याभिः योग्याभिः ऊती ऊतिभीरक्षाभिः ववन्म त्वां संभजेम ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः