मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३८, ऋक् १

संहिता

उदु॒ ष्य दे॒वः स॑वि॒ता य॑याम हिर॒ण्ययी॑म॒मतिं॒ यामशि॑श्रेत् ।
नू॒नं भगो॒ हव्यो॒ मानु॑षेभि॒र्वि यो रत्ना॑ पुरू॒वसु॒र्दधा॑ति ॥

पदपाठः

उत् । ऊं॒ इति॑ । स्यः । दे॒वः । स॒वि॒ता । य॒या॒म॒ । हि॒र॒ण्ययी॑म् । अ॒मति॑म् । याम् । अशि॑श्रेत् ।
नू॒नम् । भगः॑ । हव्यः॑ । मानु॑षेभिः । वि । यः । रत्ना॑ । पु॒रु॒ऽवसुः॑ । दधा॑ति ॥

सायणभाष्यम्

सविता सर्वस्यप्रेरकः स्यः सदेवः हिरण्ययीं सुवर्णमयीं यां अमतिं रूपनामैतत् रूपं प्रभामित्यर्थः अशिश्रेत् आश्रयति ताममतिं उद्ययाम उद्यच्छति उद्गमयति उइतिपदपूरणः नूनमद्य भगोभजनीयोयः सविता मानुषेभिः मनुष्यैः स्तोतृभिः हव्योहवनीयः स्तोतव्योभवति पु- रूवसुःबहुधनोयोदेवःस्तोतृभ्योरत्ना रत्नानि रमणीयानि धनानि विदधाति करोति ससविता देवःताममतिं उद्ययामेति पूर्वेणसंबंध: ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः