मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३८, ऋक् २

संहिता

उदु॑ तिष्ठ सवितः श्रु॒ध्य१॒॑स्य हिर॑ण्यपाणे॒ प्रभृ॑तावृ॒तस्य॑ ।
व्यु१॒॑र्वीं पृ॒थ्वीम॒मतिं॑ सृजा॒न आ नृभ्यो॑ मर्त॒भोज॑नं सुवा॒नः ॥

पदपाठः

उत् । ऊं॒ इति॑ । ति॒ष्ठ॒ । स॒वि॒त॒रिति॑ । श्रु॒धि । अ॒स्य । हिर॑ण्यऽपाणे । प्रऽभृ॑तौ । ऋ॒तस्य॑ ।
वि । उ॒र्वीम् । पृ॒थ्वीम् । अ॒मति॑म् । सृ॒जा॒नः । आ । नृऽभ्यः॑ । म॒र्त॒ऽभोज॑नम् । सु॒वा॒नः ॥

सायणभाष्यम्

हे सवितः सर्वस्य प्रेरयितर्देव त्वं उत्तिष्ठ ऊर्ध्वंगच्छ ततः हिरण्यपाणे हेसुवर्णहस्त त्वं अस्मदीप्सितप्रदानाय ऋतस्य यज्ञस्य प्रभृतौ प्रणयने अस्य अस्मदीयमिदं स्तोत्रं श्रुधि शृणु उइतिपूरणः कीदृशस्त्वं उर्वीं विस्तीर्णां पृथ्वीं प्रथितां अमतिं रूपं प्रभां विसृजानोविसृ- जन् नृभ्योनेतृभ्यः स्तोतृभ्यः मर्तभोजनं मनुष्याणां भोगयोग्यं धनं आसुवानः प्रेरयन् एवंभूतस्त्वं इदं स्तोत्रं श्रृण्वितिसंबन्धः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः