मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३८, ऋक् ८

संहिता

वाजे॑वाजेऽवत वाजिनो नो॒ धने॑षु विप्रा अमृता ऋतज्ञाः ।
अ॒स्य मध्व॑ः पिबत मा॒दय॑ध्वं तृ॒प्ता या॑त प॒थिभि॑र्देव॒यानै॑ः ॥

पदपाठः

वाजे॑ऽवाजे । अ॒व॒त॒ । वा॒जि॒नः॒ । नः॒ । धने॑षु । वि॒प्राः॒ । अ॒मृ॒ताः॒ । ऋ॒त॒ऽज्ञाः॒ ।
अ॒स्य । मध्वः॑ । पि॒ब॒त॒ । मा॒दय॑ध्वम् । तृ॒प्ताः । या॒त॒ । प॒थिऽभिः॑ । दे॒व॒ऽयानैः॑ ॥

सायणभाष्यम्

हे वाजिनः एतन्नामकादेवाः विप्राः मेधाविनः अमृता अमरणधर्माणः ऋतज्ञाः सत्यं जानन्तः एवं भूताः सन्तोयूयं वाजेवाजे सर्वेषु युद्धेषु नोस्मान् धनेषु धननिमित्तेषु अवत पालयत ततोयूयं अस्यमध्वः मधुरोपेतमिमं सोमं पिबत सोमपानानंतरं मादयध्वं यूयं तृप्ताभवत ततस्तृप्तायूयं देवयांनैः देवगमनसाधनैः पथिमिर्मार्गैर्यात गच्छत ॥ ८ ॥

ऊर्ध्वोअग्निरिति सप्तर्चं षष्ठं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वैश्वदेवं ऊर्ध्वः सप्तवैश्वदेवं त्वित्यनुक्रमणिका । सूक्तविनियोगोलैंगिकः । द्वितीयेछन्दोमे प्रउगशस्त्रे ऊर्ध्वोअग्निरिति वैश्वदेवस्तृचः सूत्रितंच-ऊर्ध्वोअग्निः सुमतिंवस्वोअश्रेदुतस्यानः सरस्वतीजुषाणेति प्रउगमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः