मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३९, ऋक् २

संहिता

प्र वा॑वृजे सुप्र॒या ब॒र्हिरे॑षा॒मा वि॒श्पती॑व॒ बीरि॑ट इयाते ।
वि॒शाम॒क्तोरु॒षसः॑ पू॒र्वहू॑तौ वा॒युः पू॒षा स्व॒स्तये॑ नि॒युत्वा॑न् ॥

पदपाठः

प्र । व॒वृ॒जे॒ । सु॒ऽप्र॒याः । ब॒र्हिः । ए॒षा॒म् । आ । वि॒श्पती॑ इ॒वेति॑ वि॒श्पती॑ऽइव । बीरि॑टे । इ॒या॒ते॒ इति॑ ।
वि॒शाम् । अ॒क्तोः । उ॒षसः॑ । पू॒र्वऽहू॑तौ । वा॒युः । पू॒षा । स्व॒स्तये॑ । नि॒युत्वा॑न् ॥

सायणभाष्यम्

एषां यजमानानां संबन्धि सुप्रयाः शोभनान्नेन युक्तं बर्हिः कुशमयं प्रववृजे प्रवृज्यते आसाद्यतेइत्यर्थः विश्पतीव इवेतीदानीमर्थे इदानीं अस्मदीयानां प्रजानां पालकौ नियुत्वान् नियुच्छब्देन वडवाउच्यन्ते तद्वान् वायुः पूषाच विशां प्रजानां स्वस्तये क्षेमाय अक्तोः रात्रेः संबन्धिन्याउषसः सकाशात् पूर्वहूतौ पूर्वस्मिन्नाह्वानेसति बीरिटेन्तरिक्षे आ इयाते आगच्छतां यद्वा विश्पतीवेत्युपमा विशां मनुष्याणां बीरिटे गणे विश्पतीव राजानौ यथा गच्छतां तद्वत् अस्मिन्पक्षे विशामित्यभयत्र संबध्यते ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः