मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३९, ऋक् ३

संहिता

ज्म॒या अत्र॒ वस॑वो रन्त दे॒वा उ॒राव॒न्तरि॑क्षे मर्जयन्त शु॒भ्राः ।
अ॒र्वाक्प॒थ उ॑रुज्रयः कृणुध्वं॒ श्रोता॑ दू॒तस्य॑ ज॒ग्मुषो॑ नो अ॒स्य ॥

पदपाठः

ज्म॒याः । अत्र॑ । वस॑वः । र॒न्त॒ । दे॒वाः । उ॒रौ । अ॒न्तरि॑क्षे । म॒र्ज॒य॒न्त॒ । शु॒भ्राः ।
अ॒र्वाक् । प॒थः । उ॒रु॒ऽज्र॒यः॒ । कृ॒णु॒ध्व॒म् । श्रोता॑ । दू॒तस्य॑ । ज॒ग्मुषः॑ । नः॒ । अ॒स्य ॥

सायणभाष्यम्

वसवो वसुसंज्ञकादेवाः अत्रास्मिन्यज्ञे ज्मयाः पृथिव्यां रन्त रमयन्तां उरौ विस्तीर्णे अन्तरिक्षे स्थिताः शुभ्राः दीप्यमानाः मरुतश्च मर्जयन्त परिचर्यन्ते । हे उरुज्रयः प्रभूतगमनाः वस्वोमरुरश्च यूयं पथः युष्मदीयान्मार्गान् अर्वागस्मदभिमुखं यथा भवति तथा कृणुध्वं कुरुत अपिच यूयं जग्मुषः युष्मान् प्रतिगतवतः नोस्मदीयस्य अस्य दूतस्याग्नेराह्वानं श्रोत शृणुत अग्निर्हि यजमानानां दूतःसन् देवा- नाह्वयतीत्यर्थः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः