मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३९, ऋक् ४

संहिता

ते हि य॒ज्ञेषु॑ य॒ज्ञिया॑स॒ ऊमा॑ः स॒धस्थं॒ विश्वे॑ अ॒भि सन्ति॑ दे॒वाः ।
ताँ अ॑ध्व॒र उ॑श॒तो य॑क्ष्यग्ने श्रु॒ष्टी भगं॒ नास॑त्या॒ पुरं॑धिम् ॥

पदपाठः

ते । हि । य॒ज्ञेषु॑ । य॒ज्ञिया॑सः । ऊमाः॑ । स॒धऽस्थ॑म् । विश्वे॑ । अ॒भि । सन्ति॑ । दे॒वाः ।
तान् । अ॒ध्व॒रे । उ॒श॒तः । य॒क्षि॒ । अ॒ग्ने॒ । श्रु॒ष्टी । भग॑म् । नास॑त्या । पुर॑म्ऽधिम् ॥

सायणभाष्यम्

यज्ञेषु यागेषु तेहि तेखलु प्रसिद्धाः यज्ञियासोयज्ञार्हाः ऊमारक्षकाः विश्वे सर्वे देवाः सधस्थं सहस्थानं अभि सन्ति अभिभवन्ति आक्राम- न्ति हे अग्ने अस्मदीये यज्ञे उशतः कामयमानान् तान् देवान् यक्षि यज । तथा श्रुष्टी क्षिप्रनामैतत् क्षिप्रं भगं एतत्संज्ञकं देवं नासत्या नासत्यौ अश्विनौ च पुरंधिं पुरुणां ध्यातारमिन्द्रं च यज ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः