मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३९, ऋक् ५

संहिता

आग्ने॒ गिरो॑ दि॒व आ पृ॑थि॒व्या मि॒त्रं व॑ह॒ वरु॑ण॒मिन्द्र॑म॒ग्निम् ।
आर्य॒मण॒मदि॑तिं॒ विष्णु॑मेषां॒ सर॑स्वती म॒रुतो॑ मादयन्ताम् ॥

पदपाठः

आ । अ॒ग्ने॒ । गिरः॑ । दि॒वः । आ । पृ॒थि॒व्याः । मि॒त्रम् । व॒ह॒ । वरु॑णम् । इन्द्र॑म् । अ॒ग्निम् ।
आ । अ॒र्य॒मण॑म् । अदि॑तिम् । विष्णु॑म् । ए॒षा॒म् । सर॑स्वती । म॒रुतः॑ । मा॒द॒य॒न्ता॒म् ॥

सायणभाष्यम्

हे अग्ने त्वं दिवः द्युलोकात सकाशात् गिरः गरीयान् स्तुत्यान् देवान् अस्मदीयं यज्ञं प्रति आवह आह्वानं कुरु पृथिव्याः अन्तरिक्षच्च आवह कान् देवानिति तदुच्यते मित्रं एतत्संज्ञकं वरुणं च इन्द्रं च देवेषु देवतास्वरूपेणावस्थितं चाग्निं अर्यमणमेतत्संज्ञकं अदिति- मदीनां पृथ्वींच विष्णुंच एवंभूतान् देवान् एषामस्माकं यजमानानामर्थाय आवह सरस्वती वाग्देवता च मरुतश्च मादयन्तां अस्मदीयैः स्तोत्रैर्हविर्भिश्च माद्यन्तु ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः