मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३९, ऋक् ६

संहिता

र॒रे ह॒व्यं म॒तिभि॑र्य॒ज्ञिया॑नां॒ नक्ष॒त्कामं॒ मर्त्या॑ना॒मसि॑न्वन् ।
धाता॑ र॒यिम॑विद॒स्यं स॑दा॒सां स॑क्षी॒महि॒ युज्ये॑भि॒र्नु दे॒वैः ॥

पदपाठः

र॒रे । ह॒व्यम् । म॒तिऽभिः॑ । य॒ज्ञिया॑नाम् । नक्ष॑त् । काम॑म् । मर्त्या॑नाम् । असि॑न्वन् ।
धात॑ । र॒यिम् । अ॒वि॒ऽद॒स्यम् । स॒दा॒ऽसाम् । स॒क्षी॒महि॑ । युज्ये॑भिः । नु । दे॒वैः ॥

सायणभाष्यम्

यज्ञियानां चतुर्थ्यर्थेषष्ठी यज्ञार्हेभ्योदेवेभ्यः मतिभिः अस्मदीयाभिः स्तुतिभिः सह हव्यं हविः ररे अस्माभिर्दीयते मर्त्यानां मनुष्याणां अस्माकं काममभिलाषं असिन्वन् अप्रतिबध्नन् अग्निर्नक्षत् अस्मदीयं यज्ञं व्याप्नोतु । हे देवाः यूयं अविदस्यं अनुपक्षपणीयं सदासां सर्व- दा संभजनीयं रयिं धनं धात अस्मभ्यंदत्त नु अद्य वयं युज्येभिः सहायभूतैः इह यज्ञे समागतैर्देवैः सक्षीमहि यद्वा नुइत्युपमार्थे युज्येभि- र्बन्धुभिरिवदेवैः सक्षीमहि ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः