मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४०, ऋक् २

संहिता

मि॒त्रस्तन्नो॒ वरु॑णो॒ रोद॑सी च॒ द्युभ॑क्त॒मिन्द्रो॑ अर्य॒मा द॑दातु ।
दिदे॑ष्टु दे॒व्यदि॑ती॒ रेक्णो॑ वा॒युश्च॒ यन्नि॑यु॒वैते॒ भग॑श्च ॥

पदपाठः

मि॒त्रः । तत् । नः॒ । वरु॑णः । रोद॑सी॒ इति॑ । च॒ । द्युऽभ॑क्तम् । इन्द्रः॑ । अ॒र्य॒मा । द॒दा॒तु॒ ।
दिदे॑ष्टु । दे॒वी । अदि॑तिः । रेक्णः॑ । वा॒युः । च॒ । यत् । नि॒यु॒वैते॒ इति॑ नि॒ऽयु॒वैते॑ । भगः॑ । च॒ ॥

सायणभाष्यम्

मित्रोदेवः नोस्मभ्यं तत् प्रसिद्धं धनं ददातु प्रयच्छतु तथा वरुणोददातु रोदसी च द्यावापृथिव्यौ च दत्तां तथा इन्द्रः द्युभक्तं द्युभिः द्योतमानैः स्तोतृभिः सेवितं तद्धनं ददातु अर्यमाच ददातु तथा अदितिर्देवी रेक्णोधनं दिदेष्टु तद्धनमस्मभ्यं दिशतु वायुश्च भगश्च उभौ देवौ यद्धनं नियुवैते अस्मान्नितरां योजयेतां तद्धनमिति पूर्वेणसंबन्धः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः