मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४०, ऋक् ३

संहिता

सेदु॒ग्रो अ॑स्तु मरुत॒ः स शु॒ष्मी यं मर्त्यं॑ पृषदश्वा॒ अवा॑थ ।
उ॒तेम॒ग्निः सर॑स्वती जु॒नन्ति॒ न तस्य॑ रा॒यः प॑र्ये॒तास्ति॑ ॥

पदपाठः

सः । इत् । उ॒ग्रः । अ॒स्तु॒ । म॒रु॒तः॒ । सः । शु॒ष्मी । यम् । मर्त्य॑म् । पृ॒ष॒त्ऽअ॒श्वाः॒ । अवा॑थ ।
उ॒त । ई॒म् । अ॒ग्निः । सर॑स्वती । जु॒नन्ति॑ । न । तस्य॑ । रा॒यः । प॒रि॒ऽए॒ता । अ॒स्ति॒ ॥

सायणभाष्यम्

हे पृषदश्वाः पृषच्छब्देन केचिन्मृगविशेषाउच्यन्ते तएवाश्वावाहायेषां ते एवंभूता हे मरुतोरुद्रपुत्रादेवाः यूयं मर्त्यं मरणधर्माणं यं यज- मानं अवाथ पालयत सेत् सएव यजमानः उग्रःअस्तु ओजस्वीभवतु तथा सशुष्मी बलवान् भवतु तथा उतापिच अग्निरंगनादिगुणयु- क्तोदेवः सरस्वती वाग्देवता चेत्याद्याः सर्वेदेवा ईमेनं यजमानं जुनन्ति प्रवर्तयन्ति तस्य यजमानस्य संबन्धिनोरायोधनस्य कश्चिदपि पर्येता परिगन्ता नास्ति नाशको नभवतीत्यर्थः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः