मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४०, ऋक् ६

संहिता

मात्र॑ पूषन्नाघृण इरस्यो॒ वरू॑त्री॒ यद्रा॑ति॒षाच॑श्च॒ रास॑न् ।
म॒यो॒भुवो॑ नो॒ अर्व॑न्तो॒ नि पा॑न्तु वृ॒ष्टिं परि॑ज्मा॒ वातो॑ ददातु ॥

पदपाठः

मा । अत्र॑ । पू॒ष॒न् । आ॒घृ॒णे॒ । इ॒र॒स्यः॒ । वरू॑त्री । यत् । रा॒ति॒ऽसाचः॑ । च॒ । रास॑न् ।
म॒यः॒ऽभुवः॑ । नः॒ । अर्व॑न्तः । नि । पा॒न्तु॒ । वृ॒ष्टिम् । परि॑ऽज्मा । वातः॑ । द॒दा॒तु॒ ॥

सायणभाष्यम्

हे आघृणे प्राप्तदीप्ते एवंभूत हे पूषन् देव अत्रास्मिन् दाने माइरस्यः विघातं माकृथाः वरूत्री सर्वैर्वरणीया सरस्वतीरातिषाचश्च रातिर्दा- नं तस्यसंभक्त्योदेवपत्न्यश्च यद्धनं रासन् अस्मभ्यं प्रयच्छेयुः अत्र माकृथाइति पूर्वेणसंबन्धः किंच मयोभुवः सुखस्यभावकाः अर्वन्तोग- च्छन्तोदेवाः नोस्मान्निपान्तु नितरांपालयन्तु परिज्मा परितोगन्ता वातोवायुः वृष्टिं वृष्टिलक्षणमुदकं ददातु प्रयच्छत्वस्मभ्यं ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः