मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४१, ऋक् १

संहिता

प्रा॒तर॒ग्निं प्रा॒तरिन्द्रं॑ हवामहे प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना॑ ।
प्रा॒तर्भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॑ प्रा॒तः सोम॑मु॒त रु॒द्रं हु॑वेम ॥

पदपाठः

प्रा॒तः । अ॒ग्निम् । प्र॒तः । इन्द्र॑म् । ह॒वा॒म॒हे॒ । प्र॒तः । मि॒त्रावरु॑णा । प्रा॒तः । अ॒श्विना॑ ।
प्र॒तः । भग॑म् । पू॒षण॑म् । ब्रह्म॑णः । पति॑म् । प्र॒तः । सोम॑म् । उ॒त । रु॒द्रम् । हु॒वे॒म॒ ॥

सायणभाष्यम्

प्रातरुषःकाले अग्निंदेवं हवामहे वयं स्तोतार आह्वयामः तथा प्रातःकाले इन्द्रं हवामहे तथा मित्रावरुणौ अहोरात्राभिमानिनौ देवौ प्रा- तर्वयं हवामहे तथा अश्विनौ देवानां भिषजौ प्रातर्वयं हवामहे तथा प्रातर्भगं देवं पूषणं देवं ब्रह्मणस्पतिं मंत्राभिमानिनमेतत्संज्ञकं च आह्वयामः तथा प्रातः सोममेतत्संज्ञकं देवं उतापिच रुद्रं देवं च हुवेम आह्वयामः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः