मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४१, ऋक् ३

संहिता

भग॒ प्रणे॑त॒र्भग॒ सत्य॑राधो॒ भगे॒मां धिय॒मुद॑वा॒ दद॑न्नः ।
भग॒ प्र णो॑ जनय॒ गोभि॒रश्वै॒र्भग॒ प्र नृभि॑र्नृ॒वन्त॑ः स्याम ॥

पदपाठः

भग॑ । प्रने॑त॒रिति॒ प्रऽने॑तः । भग॑ । सत्य॑ऽराधः । भग॑ । इ॒माम् । धिय॑म् । उत् । अ॒व॒ । दद॑त् । नः॒ ।
भग॑ । प्र । नः॒ । ज॒न॒य॒ । गोभिः॑ । अश्वैः॑ । भग॑ । प्र । नृऽभिः॑ । नृ॒ऽवन्तः॑ । स्या॒म॒ ॥

सायणभाष्यम्

हे भगदेव त्वं प्रणेतः प्रकर्षेणनेतासि तादृशप्रणेतः हे भग त्वं सत्यराधः सत्यधनोसि तादृशसत्यराधः हे भग त्वं नोस्मभ्यं ददत् कामान् प्रयच्छन् इमामस्मदीयां धियं स्तुतिं उदव उद्रक्ष सफलयुक्तांकुरु । हे भग त्वं गोभिरश्वैश्चनोस्मान् प्रजनय प्रोद्भूतान् कुरु हे भग त्वत्प्र- सादात् वयं नृभिर्नेतृभिः पुत्रादिभिर्नृवन्तः मनुष्यवन्तः प्रस्याम प्रभवेम ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः