मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४१, ऋक् ४

संहिता

उ॒तेदानीं॒ भग॑वन्तः स्यामो॒त प्र॑पि॒त्व उ॒त मध्ये॒ अह्ना॑म् ।
उ॒तोदि॑ता मघव॒न्त्सूर्य॑स्य व॒यं दे॒वानां॑ सुम॒तौ स्या॑म ॥

पदपाठः

उ॒त । इ॒दानी॑म् । भग॑ऽवन्तः । स्या॒म॒ । उ॒त । प्र॒ऽपि॒त्वे । उ॒त । मध्ये॑ । अह्ना॑म् ।
उ॒त । उत्ऽइ॑ता । म॒घ॒ऽव॒न् । सूर्य॑स्य । व॒यम् । दे॒वाना॑म् । सु॒ऽम॒तौ । स्या॒म॒ ॥

सायणभाष्यम्

उतापिच इदानीं वयं भगवन्तः स्याम हे भग भगेन त्वया स्वामिनायुक्ता भवेम यद्वा भगवन्तोधनवन्तः स्याम उतापिच प्रपित्वे अह्नां प्राप्ते पूर्वाह्वे भगवन्तः स्याम उतापिच अह्नां दिवसानां मध्ये मह्याह्ने भगवन्तः स्याम उतापिच हे मघवन् धनवन् भगदेव सूर्यस्य सर्वस्य प्रेरकस्य देवस्य उदिता उदितौ उदयेसति वयं त्वदनुग्रहात् देवानामिन्द्रादीनां सुमतौ अनुग्रहबुद्धौ स्याम भवेम ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः