मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४१, ऋक् ६

संहिता

सम॑ध्व॒रायो॒षसो॑ नमन्त दधि॒क्रावे॑व॒ शुच॑ये प॒दाय॑ ।
अ॒र्वा॒ची॒नं व॑सु॒विदं॒ भगं॑ नो॒ रथ॑मि॒वाश्वा॑ वा॒जिन॒ आ व॑हन्तु ॥

पदपाठः

सम् । अ॒ध्व॒राय॑ । उ॒षसः॑ । न॒म॒न्त॒ । द॒धि॒क्रावा॑ऽइव । शुच॑ये । प॒दाय॑ ।
अ॒र्वा॒ची॒नम् । व॒सु॒ऽविद॑म् । भग॑म् । नः॒ । रथ॑म्ऽइव । अश्वाः॑ । वा॒जिनः॑ । आ । व॒ह॒न्तु॒ ॥

सायणभाष्यम्

शुचये शुद्धाय गमनयोग्याय पदाय स्थानाय दधिक्रावेव यथा तथा अश्वाः उषसोउषोदेवता अध्वराय अस्मदीयाय यागाय संनमन्त संग- च्छन्तु वाजिनोवेगवन्तोश्वाः रथमिव रथं यथा तथा उषसः अर्वाचीनं अस्मदभिमुखं वसुविदं धनस्य प्रापकं भगं देवं नोस्मान् प्रति आवहन्तु आनयन्तु ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः