मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४२, ऋक् १

संहिता

प्र ब्र॒ह्माणो॒ अङ्गि॑रसो नक्षन्त॒ प्र क्र॑न्द॒नुर्न॑भ॒न्य॑स्य वेतु ।
प्र धे॒नव॑ उद॒प्रुतो॑ नवन्त यु॒ज्याता॒मद्री॑ अध्व॒रस्य॒ पेशः॑ ॥

पदपाठः

प्र । ब्र॒ह्माणः॑ । अङ्गि॑रसः । न॒क्ष॒न्त॒ । प्र । क्र॒न्द॒नुः । न॒भ॒न्य॑स्य । वे॒तु॒ ।
प्र । धे॒नवः॑ । उ॒द॒ऽप्रुतः॑ । न॒व॒न्त॒ । यु॒ज्याता॑म् । अद्री॒ इति॑ । अ॒ध्व॒रस्य॑ । पेशः॑ ॥

सायणभाष्यम्

ब्रह्माणः अंगिरसः एतन्नामकाऋषयः प्रनक्षन्त सर्वत्रव्याप्नुवन्तु क्रन्दनुः पर्जन्यझः नभन्यस्य स्तोत्रस्य अस्मदीयं स्तोत्रं प्रवेतु प्रकर्षेणे- च्छतु धेनवः प्रीणयित्र्योनद्यः उदप्नुतः उदकानि सिंचंत्यः प्रनवन्त सर्पन्तु अद्रिरद्रीयन्तौ पत्नीयजमानौ अध्वरस्य यज्ञस्य पेशः रूपं युज्यातां योजयेतां ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः