मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४२, ऋक् २

संहिता

सु॒गस्ते॑ अग्ने॒ सन॑वित्तो॒ अध्वा॑ यु॒ङ्क्ष्वा सु॒ते ह॒रितो॑ रो॒हित॑श्च ।
ये वा॒ सद्म॑न्नरु॒षा वी॑र॒वाहो॑ हु॒वे दे॒वानां॒ जनि॑मानि स॒त्तः ॥

पदपाठः

सु॒ऽगः । ते॒ । अ॒ग्ने॒ । सन॑ऽवित्तः । अध्वा॑ । यु॒ङ्क्ष्व । सु॒ते । ह॒रितः॑ । रो॒हितः॑ । च॒ ।
ये । वा॒ । सद्म॑न् । अ॒रु॒षाः । वी॒र॒ऽवाहः॑ । हु॒वे । दे॒वाना॑म् । जनि॑मानि । स॒त्तः ॥

सायणभाष्यम्

हे अग्ने सनवत्तिः सनाच्चिरकालादारभ्यलब्धः ते त्वदीयोध्वामार्गः सुगः सुष्ठुगंतव्योभवतु किं च हरितः श्यामवर्णाः रोहितश्च लोहित- वर्णश्चेत्युभयविधाः येवा येच ते त्वदीयाअश्चाः सद्मन् यज्ञगृहे वीरवाहः वीरं शूरं त्वां वहन्तः अरुषाः आरोचमानाभवन्ति तांश्च त्वं सुयुंश्व त्वदीयेरथे सुष्ठु संयोजय निसत्तः यज्ञगृहे निषण्णोऽहं होतासन् सुते अभिषुते सोमे सति देवानामिन्द्रादीनां जनिमानि जनान् संघान् हुवे आह्वयामि ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः